मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् १७

संहिता

सु॒कर्मा॑णः सु॒रुचो॑ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः ।
शु॒चन्तो॑ अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं॑ परि॒षद॑न्तो अग्मन् ॥

पदपाठः

सु॒ऽकर्मा॑णः । सु॒ऽरुचः॑ । दे॒व॒ऽयन्तः॑ । अयः॑ । न । दे॒वाः । जनि॑म । धम॑न्तः ।
शु॒चन्तः॑ । अ॒ग्निम् । व॒वृ॒धन्तः॑ । इन्द्र॑म् । ऊ॒र्वम् । गव्य॑म् । प॒रि॒ऽसद॑न्तः । अ॒ग्म॒न् ॥

सायणभाष्यम्

अग्रयण अग्नेन्द्रस्य हविषः सुकर्माण इति याज्या । सूत्रितं च । सुकर्माणः सुरुचो देवयन्तो विश्वे देवास आगत । आ. २-९ । इति ॥

सुकर्माणः सुष्ठ्वनुष्ठितयागादिकर्मानः सुरुचः शोभनदीप्तयो देवयन्तो देवान् कामयमाना देवा देवनशीलाः स्तोतारो जनिम स्वकीयं मानुषं जन्म धमन्तो यागादिलक्षनेन कर्माणा निर्मलीकुर्वन्तः । तत्र दृष्टान्तः । अयो न । यथा कर्मारा अयो भस्त्रेण धमन्ति तद्वत् । दादृशा अग्निं शुचन्तो हविर्भिर्दीपयन्त इन्द्रं ववृधन्तः सोमेन स्तुत्या वा वधयन्तोऽङ्गिरसः परिषदन्तः परितः सीदन्तः सन्त ऊर्वं महान्तं गव्यं गोसङ्घमग्मन् । प्राप्नुवन् । सुकर्माणः । सोर्मनसीत्युत्तरपदाद्युदात्तत्वम् । धमन्तः । ध्मा शब्दाग्नि संयोगयोः । शतरि पाघ्रादिना धमादेशः शपः पित्त्वादनुदात्तत्वे शतुर्लसार्वधातुकस्वरः । ववृधन्तः । वृधु वर्धने । व्यत्ययेन परस्मैपदम् । शतरि शपः श्लुः । गव्यम् । गवां समूह इत्यर्थे खलगोरथादिति यः । अग्मन् । गमेर्लुङि ज्लेर्लुकि रूपं ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९