मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् १८

संहिता

आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र ।
मर्ता॑नां चिदु॒र्वशी॑रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥

पदपाठः

आ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्वः । अ॒ख्य॒त् । दे॒वाना॑म् । यत् । जनि॑म । अन्ति॑ । उ॒ग्र॒ ।
मर्ता॑नाम् । चि॒त् । उ॒र्वशीः॑ । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्यः । उप॑रस्य । आ॒योः ॥

सायणभाष्यम्

उग्र तेजस्विन्हे अग्ने देवानामङ्गिरसां सम्बन्धि यज्जनिम यं गोसङ्घमन्ति पर्वतस्य समीप आख्यत् । आ समन्तादिन्द्रोऽपश्यत् । तत्र दृष्टान्तः । यूथेव । यथा पश्वः पशूनां गवां यूथानि क्शुमत्यन्नवत्याढ्यगृहे वर्तमानानि पश्यन्ति जनास्तद्वत् । यद्वा । हे अग्ने तव परिचारकोङ्गिरोगणो देवानामिन्द्रादीनां यज्जनिम योऽयं जनोऽन्ति मदन्तिके पश्वः पणिभिरपहैतान्पशूनाख्यत् । समन्तात्पश्यति । तत्र दृष्टान्तः । यथा क्षुमति शब्दं कुर्वाणे गवां यूथा यूथे पशून्पत्यन्ति तद्वत् । मर्तानां चिन्मनुष्याणामुर्वशीरूरुभ्यामश्नुवानाः । उर्वभ्यश्नुत ऊरुभ्यामश्नुत इति यास्कः । नि. ५-१६ । प्रजा अकृप्रन् । ताभिरानीताभिर्गोभिः क्लृप्ताः समर्था अभवन् । चिदपि च अर्यः स्वामी लब्ध गोधन उपरस्योप्तस्य निषिक्तस्यापत्यस्य वृधे वर्धनाय समर्थो भवति । तत्यायोर्मनुष्यस्य भृत्यादेश्च पोशणे समर्थो भवति । यूथेव । शसः सप्तम्या वा डादेशः । क्शुमति । क्शुदित्यन्ननाम । यद्वा । टुक्षु शब्दे । भावे क्विप् । छान्दसस्तकारलोपः । तदस्यास्तीति मतुप् । ह्रस्रनुड्भ्यां मतुबिति मतुप उदात्तत्वम् । अख्यत् । ख्या प्रकथने । लुङि च्लेरस्यतिवक्तिख्यातिभ्योऽङ्गित्यङादेशः । आतो लोपः । जनिम । जनी प्रादुर्भावे । हृजनिभ्यामिमनिन्नितीमनिन्प्रत्ययः । नित्त्वादद्युदात्तः । अकृप्रन् । कृपू सामर्थ्ये । लङि बहुलं छन्दसीति विकरणस्य लुक् । रुडागमः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९