मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् २०

संहिता

ए॒ता ते॑ अग्न उ॒चथा॑नि वे॒धोऽवो॑चाम क॒वये॒ ता जु॑षस्व ।
उच्छो॑चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य॑न्धि ॥

पदपाठः

ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । अवो॑चाम । क॒वये॑ । ता । जु॒ष॒स्व॒ ।
उत् । शो॒च॒स्व॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ । म॒हः । रा॒यः । पु॒रु॒ऽवा॒र॒ । प्र । य॒न्धि॒ ॥

सायणभाष्यम्

वेधो विधातर्हे अग्ने कवये मेधाविने ते तुभ्यमेतैतान्युचथान्युक्थानि शस्त्राण्यवोचाम । त्वं ता तानि जुषस्व । सेवस्व । किञ्च त्वमुच्छोचस्व । उद्दीप्यस्व । नोऽस्मान्वस्यसोऽतिशयेन धनयुक्तान् कृणुहि । कुरु । तदेवोच्यते । पुरुवारपुरुभिर्बहुभिर्वरणिय महो रायो महद्धनं प्र यन्धि । अस्मभ्यं प्रयच्छ । अवोचाम । वच परिभाषणे । लुङि च्लेरङादेशः । पादादित्वादनिघातः । कृणुहि । कृवि हिंसाकरणयोरित्यस्य लोटि रूपम् । तिङ उत्तरत्वादनिघातः । वस्यसः । वसुमच्छब्दादीयसुनि विन्मतोर्लुगिति मतुपो लुकि टिलोपे च कृत ईकारलोपश्छान्दसः । यन्धि । यमेर्लोटि बहुलं छन्दसिति विकरनस्य लुक् । वा छन्दसीति हेर्विकल्पेन पित्त्वादङितश्चेति धिरादेशः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९