मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् ३

संहिता

आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः ।
दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥

पदपाठः

आ॒शृ॒ण्व॒ते । अदृ॑पिताय । मन्म॑ । नृ॒ऽचक्ष॑से । सु॒ऽमृ॒ळी॒काय॑ । वे॒धः॒ ।
दे॒वाय॑ । श॒स्तिम् । अ॒मृता॑य । शं॒स॒ । ग्रावा॑ऽइव । सोता॑ । म॒धु॒ऽसुत् । यम् । ई॒ळे ॥

सायणभाष्यम्

वेधः स्तोत्राणां कर्तर्हे स्तोतराशृण्वते स्तोत्राकर्णनपरायादृपिता यादृप्तायाप्रमत्ताय नृचक्षसे वृणां द्रष्ट्रे सुमृळिकाय सुसुखायामृताय मरणधर्मरहिताय देवाय तस्मा अग्नये मन्म स्तोत्रं शस्तिं शस्त्रं च संश । मधुषुन्मदकरस्य सोमस्य सोता । तत्र दृष्टान्तः । ग्रावेव । यथा ग्रावा सोमस्य सोता तद्वत् । सोमाभिषवं कुर्वाणो यजमानो यमग्निमीळे । स्तौति । तस्मै शंसेति समन्वयः । यद्वा । मधुषुत्सोमसुद्यजमानोऽग्निमीळे । स्तौति । तत्र दृष्टान्तः । यथा ग्रावा सोमस्य सोता शब्दं करोति । प्रैते वदन्तु प्रवयं वदाम ग्रावभ्यः । ऋग्वे. १०-९४-१ । इत्यत्र ग्राव्णां कर्तृत्वं श्रुतमिति । आशृण्वते । शतरनुम इति बिभक्तेरुदात्तत्वम् । ईळे । ईड स्तुतौ । लटि लोपस्त आत्मनेपदेष्विति तलोपः । यद्वा । लिटि तशब्दस्यैशादेशे कृते रूपं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०