मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् ४

संहिता

त्वं चि॑न्न॒ः शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः ।
क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥

पदपाठः

त्वम् । चि॒त् । नः॒ । शम्यै॑ । अ॒ग्ने॒ । अ॒स्याः । ऋ॒तस्य॑ । बो॒धि॒ । ऋ॒त॒ऽचि॒त् । सु॒ऽआ॒धीः ।
क॒दा । ते॒ । उ॒क्था । स॒ध॒ऽमाद्या॑नि । क॒दा । भ॒व॒न्ति॒ । स॒ख्या । गृ॒हे । ते॒ ॥

सायणभाष्यम्

हे अग्ने त्वं चित्त्वमेव शम्यै । शमीशब्दः कर्मनाम । अस्याः शम्यै नोऽस्मत्सम्बन्धिनोऽस्य कर्मणो देवता भवसि । हे ऋतचित् सत्यज्ञ हे अग्ने स्वाधीः सुकर्मा सुध्यानो वा त्वमृतस्य बोधि । अस्मदीयं स्तोत्रं बुध्यस्व । ते तव सधमाद्यानि सहमदनिमित्तान्युक्था शस्त्राणि कदा कस्मिन्काले भवन्ति । भविष्यन्ति । तथास्मदीये गृहे ते त्वया सह सख्या सख्यानि कदा भविष्यन्ति । सधमाद्यानि । मादयतेर्ण्यन्तस्याचो यदिति यत् । सध मादस्थयोरिति सहस्य सधादेशः । भवन्ति । विभाषा कदाकर्ह्योः । पा. ३-३-५ । इति भविष्यदर्थे लट् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०