मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् ७

संहिता

क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे ।
कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रव॒ः कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥

पदपाठः

क॒था । म॒हे । पु॒ष्टि॒म्ऽभ॒राय॑ । पू॒ष्णे । कत् । रु॒द्राय॑ । सुऽम॑खाय । ह॒विः॒ऽदे ।
कत् । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । रेतः॑ । ब्रवः॑ । कत् । अ॒ग्ने॒ । शर॑वे । बृ॒ह॒त्यै ॥

सायणभाष्यम्

हे अग्ने महे महते पुष्टिंभराय पुष्टिधारकाय पूश्ण एतन्नामकाय देवाय कथा केन हेतुना पापं ब्रवीथाः । सुमखाय सुपूजनीयाय सुयज्ञाय वा हविर्देऽग्निरूपेण देवानां हविर्दात्रे । यद्वा । स्विश्टकृत्त्वाद्धविषो दात्रे । रुद्राय कत्कथं ब्रूयाः । तथोरुगायायोरुभिर्बहुभिर्गायमानाय यद्वा । प्रभूतकीर्तये विष्णवे रेतः क्षयहेतु पापं कत्कथं वदेः । शरवे । शृणाति पक्वा ओषधीरिति शरुः शरत्संवत्सरः । यद्वा । हिंसिका निरृतिः । बृहत्यै महत्यै शरदे निरृत्यै वा कत्कथं पापं ब्रवः । बूऊयाः । पुष्टिंभराय । डुभृञ् धारणपोशणयोः । संज्ञायां भृतॄवृजीत्यादिना खच् । अरुर्दिषदजन्तस्य मुमिति पूर्वपदस्य मुमागमः । चित्त्वादन्तोदात्तः । समसे कृत्स्वरः । हविर्दे । अनुदात्तस्य च यत्रोदात्तलोप इति सुप उदात्तत्वम् । शरवे । शॄ हिंसायां शॄस्वृस्निहित्रप्यसीत्यादिना उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१