मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् ९

संहिता

ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने ।
कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥

पदपाठः

ऋ॒तेन॑ । ऋ॒तम् । निऽय॑तम् । ई॒ळे॒ । आ । गोः । आ॒मा । सचा॑ । मधु॑ऽमत् । प॒क्वम् । अ॒ग्ने॒ ।
कृ॒ष्णा । स॒ती । रुश॑ता । धा॒सिना॑ । ए॒षा । जाम॑र्येण । पय॑सा । पी॒पा॒य॒ ॥

सायणभाष्यम्

हे अग्ने ऋतेन सत्यभूतेन यज्ञेन नियतमनुस्यूतमृतमुदकं गोर्धेनोः पय एळे । आयाचे । संनाय्यादिहविरर्थं गव्यं पयस्त्वां याच इत्यभिप्रायः । आमापक्वा सा गौर्मधुमन्माधुर्योपेतं पक्वं पयः सचा सह धारयति । कृष्णा कृष्णवर्णा सत्येषा गौ रुशता श्वेतेन धासिना प्राणिनां धारकेण जामर्येण । जायन्त इति जाः प्रजाः । ता जा अमर्येणामरणनिमित्तेन तेन पयसा पीपाय । प्रजाः प्याययति ॥ तवैष महिमा यद्रसन्परिणामयन्नेवं करोशि । पीपाय । प्यायतेर्लिटि लिड्यङोश्चेति पीभावः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१