मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् १०

संहिता

ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न ।
अस्प॑न्दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥

पदपाठः

ऋ॒तेन॑ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा॑न् । अ॒ग्निः । पय॑सा । पृ॒ष्ठ्ये॑न ।
अस्प॑न्दमानः । अ॒च॒र॒त् । व॒यः॒ऽधाः । वृषा॑ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥

सायणभाष्यम्

वृषभोऽभिमतफलवर्षकः पुमान् श्रेश्ठः सोऽग्निरृतेन सत्यभुतेन पृष्ठ्येन धारकेण पयसाक्तः सिक्तो भवति । हिष्मचित् त्रयः पुरणाः । वयोधा अन्नदः सोऽग्निरस्पन्दमान एकत्रावस्थितः सन् एवाचरत् । सर्वत्र तेजसा चरति । तथा वृषापां वर्षकः पृष्निः सूर्यः शुक्रं पय ऊधोऽन्तरिक्षं मेघं वा दुदुहे । दोग्धि । अक्तः । अन्जू व्यक्तिम्रक्शणगतिषु । कर्मणिनिष्ठा । दुदुहे । द्विकर्मकोऽयं धातुः । ऊधः । अकथितं चेति कर्मसंज्ञा ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१