मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् ११

संहिता

ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्त॒ः समङ्गि॑रसो नवन्त॒ गोभि॑ः ।
शु॒नं नर॒ः परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥

पदपाठः

ऋ॒तेन॑ । अद्रि॑म् । वि । अ॒स॒न् । भि॒दन्तः॑ । सम् । अङ्गि॑रसः । न॒व॒न्त॒ । गोभिः॑ ।
शु॒नम् । नरः॑ । परि॑ । स॒द॒न् । उ॒षस॑म् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥

सायणभाष्यम्

अङ्गिरसो मेधातिथिप्रभृतय ऋतेन यज्ञेन हेतुना गवां निरोधकमद्रिं पर्वतं भिदन्तो विदारयन्तः सन्तो व्यसन् । व्यक्शिपन् । ततस्ते बोभिः सं नवंत । समगच्छन्त । नरः कर्मणां नेतारस्ते शुनं सुखेनोषसं परि सदन् । परितः प्रप्नुवन् । ततः स्वः सूर्योऽप्याविरभवत् । सर्वमेतदग्नौ त्वयि जाते मन्थनेन निष्पादिते सत्यभूदिति । असन् । अस्यतेर्लुङि च्लेरस्यतिवक्तीत्यादिनाङादेशः । अनित्यमागमशासनमिति थुगभावः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२