मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् १३

संहिता

मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः ।
मा भ्रातु॑रग्ने॒ अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥

पदपाठः

मा । कस्य॑ । य॒क्षम् । सद॑म् । इत् । हु॒रः । गाः॒ । मा । वे॒शस्य॑ । प्र॒ऽमि॒न॒तः । मा । आ॒पेः ।
मा । भ्रातुः॑ । अ॒ग्ने॒ । अनृ॑जोः । ऋ॒णम् । वेः॒ । मा । सख्युः॑ । दक्ष॑म् । रि॒पोः । भु॒जे॒म॒ ॥

सायणभाष्यम्

हे अग्ने हुरोऽस्माकं हिम्सकस्य कस्य कस्यचिदपि जन्तोर्यक्शं यज्ञं सदमित्सदैव मा गाः । कदाचिदपि मा गच्छ । प्रमिनतो हिंसकस्य वेशस्य प्रातिवेश्यस्य यज्ञं मा गाः । तथापेर्मद्व्यतिरिक्तस्य बन्धोर्युज्ञं मा गच्छ । तथानृजोः कुटिलचित्तस्य भ्रातुर्रुणवद्देयं हविर्मा वेः । मा कामयेथाः । तथा वयमपि सख्युर्मित्रस्य रिपोः शत्रोर्दक्षं भोगसमर्थं धनं मा भुजेम । मा भुञ्जीमहि । किन्तु त्वया दत्तं धनं भुञ्जीमहि । हुरः । हृ प्रसह्यकरणे । क्विप् । बहुलं छन्दसीत्युत्वम् । सावेकाच इति विभक्तेरुदात्तत्वम् । भुजेम । भुज पालनाभ्यवहारयोः । आशीर्लिङि व्यत्ययेन परस्मै पदम् । लि~फ़्याशिष्यङ्गित्यङ् प्रत्ययः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२