मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् १४

संहिता

रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः ।
प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ॥

पदपाठः

रक्ष॑ । नः॒ । अ॒ग्ने॒ । तव॑ । रक्ष॑णेभिः । र॒र॒क्षा॒णः । सु॒ऽम॒ख॒ । प्री॒णा॒नः ।
प्रति॑ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः॑ । ज॒हि । रक्षः॑ । महि॑ । चि॒त् । व॒वृ॒धा॒नम् ॥

सायणभाष्यम्

सुमख सुयज्ञ सुधनेति वा हे अग्ने ररक्षाणो भृशमस्माकं रक्षिता प्रीणानो हविर्भिः प्रीतस्त्वं तव रक्शणेभिस्त्वदीयैरवनैर्नोऽस्मान्रक्ष । पालय । प्रति स्फुर । अस्मान्प्रतिदीप्यस्व । वीळु दृढमंहः पापं वि रुज । विशेषेण नाशय । किञ्च महि चिन्महदपि वावृधानं वर्धमानं वृद्धं वा बाधकं रक्षो जहि । णः । नश्च धातुस्थोरुषुभ्य इदि सम्हितायां णत्वम् । ररक्षाणः । रक्षेर्यङ्लुकि चानशि रूपम् । जहि । हन हिंसागत्योः । लोटि हन्तेर्ज इति जादेशः । आभाच्छास्त्रीयस्या सिद्धत्वादतो हेरिति लुक् न भवति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२