मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् १५

संहिता

ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् ।
उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥

पदपाठः

ए॒भिः । भ॒व॒ । सु॒ऽमनाः॑ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म॑ऽभिः । शू॒र॒ । वाजा॑न् ।
उ॒त । ब्रह्मा॑णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒वऽवा॑ता । ज॒रे॒त॒ ॥

सायणभाष्यम्

हे अग्ने एभिर्मधीयैरर्कैरर्चनीयैः शस्त्रैः सुमनाः शोभनमनस्को भव । हे शूर इमानस्मदीयान्हविर्लक्शणान्वाजन्मन्मभिः स्तोत्रैः सह स्पृश । प्रति गृहाण । उतापि च अङ्गिरः । अङ्गति हवींषि प्राप्नोतीत्यङ्गिरा अग्निः । यद्वा । येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् । ऐ. ब्रा. ३-३४ । इदि ब्राह्मणम् । तेषामङ्गिरसां कारनत्वादग्नेरङ्गिरस्त्वम् । तत्कारणत्वे च मन्त्रः । ये अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे । ऋग्वे. १०-६२-५ । इति तादृश हे अग्ने ब्रह्माणि मन्त्रान् जुषस्व । सेवस्व । देववाता । देवार्थं गता देवान् स्तोतुं प्राप्तेत्यर्थः । तादृशी शस्तिः शंसनं ते त्वां सं जरेत । संवर्धयतु । स्पृश । स्पृस संस्पर्शने । तुदादिः । देववाता । वा गतिगन्धनयोः । गत्यर्थाकर्मकेति कर्तरि क्तः । देवः । पचाद्यजन्तः । क्ते चेति चतुर्थ्यन्तस्य पदस्य प्रकृतिस्वरः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२