मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३, ऋक् १६

संहिता

ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि ।
नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥

पदपाठः

ए॒ता । विश्वा॑ । वि॒दुषे॑ । तुभ्य॑म् । वे॒धः॒ । नी॒थानि॑ । अ॒ग्ने॒ । नि॒ण्या । वचां॑सि ।
नि॒ऽवच॑ना । क॒वये॑ । काव्या॑नि । अशं॑सिषम् । म॒तिऽभिः॑ । विप्रः॑ । उ॒क्थैः ॥

सायणभाष्यम्

वेधो विधातर्हे अग्ने विदुषे कर्मविषयज्ञानवते कवये क्रान्तदर्शिने तुभ्यं नीथानि फलप्रापकाणि निण्या नेयार्थानि गूढानि निवचना नितरां वक्तव्यानि काव्यानि कविभिर्मेधाविभि कृतान्येता विश्वैतानि सर्वाणि वचांसि वाक्यानि मतिभिर्मननीयैः स्तोत्रैरुक्थैः शस्त्रैश्च सहितो विप्रः प्राज्ञोऽहमशंसिषम् । अवोचम् । तानि सेवस्वेत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२