मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् २

संहिता

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः ।
तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥

पदपाठः

तव॑ । भ्र॒मासः॑ । आ॒शु॒ऽया । प॒त॒न्ति॒ । अनु॑ । स्पृ॒श॒ । धृ॒ष॒ता । शोशु॑चानः ।
तपूं॑षि । अ॒ग्ने॒ । जु॒ह्वा॑ । प॒त॒ङ्गान् । अस॑म्ऽदितः । वि । सृ॒ज॒ । विष्व॑क् । उ॒ल्काः ॥

सायणभाष्यम्

हे अग्ने तव सम्बन्धिनो भवासो भ्राम्यन्त आशुयु शीघ्रगतय रश्मयझ् पतन्ति । सर्वतः प्रसरन्ति । शोशुचानो भृशं दीप्यमानस्त्वं धृषताभिभवसमर्थेन तेजः सङ्घेन शत्रुननु क्रमेण स्पृश । दह । दहनोपायं दर्शयति । असन्दितः । परैरनिरुद्धस्त्वं तपूंषि तापकानि तेजांसि पतङ्गान् पतनशीलान्विस्फुलिङ्गानुल्काश्चेत्येतत्त्रितयं जुह्वा । हूयन्तेऽस्यामाहुतय इति जुहूर्ज्वाला । तया विश्वक् सर्वतो वि सृज । प्रसारय । आशुया । आशुशब्दाज्जसः सुपां सुलुगिति याजादेश । चित्स्वरः । धृषता । धृष प्रसहने । चुरादिराधृषीयः । व्यत्ययेन शः । शुतुरनुम इति विभक्तेरुदात्तत्वम् । जुह्वा । जुहोतीदीर्घश्चेति क्विप् द्विर्वचनं दीर्घत्वम् । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वस्य नोङ् धात्वोरिति प्रतिषेध उदात्तस्वरितयोर्यण इदि स्वरितत्वम् । असन्दितः । दो अवखण्डने । कर्मणि निष्था । द्यतिस्यतीतीत्वम् । नञा समासे तस्य स्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३