मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् ५

संहिता

ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥

पदपाठः

ऊ॒र्ध्वः । भ॒व॒ । प्रति॑ । वि॒ध्य॒ । अधि॑ । अ॒स्मत् । आ॒विः । कृ॒णु॒ष्व॒ । दैव्या॑नि । अ॒ग्ने॒ ।
अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् । जा॒मिम् । अजा॑मिम् । प्र । मृ॒णी॒हि॒ । शत्रू॑न् ॥

सायणभाष्यम्

हे अग्ने ऊर्ध्वोभव । रक्शोहननार्थमुद्युक्त भव । अस्मदस्मत्तोऽधि अधिकान्राक्षसान् प्रति विध्य । प्रत्येकं ताडय । दैव्यानि तेजांसि चाविष्कृणुष्व । आविष्कुरु । एतत्त्रयं विधाय यातुजूनां यतयितुं प्राणिनः क्लेशयितुं ये जवं कुर्वन्ति तेषां यातुधानानां स्थिरा दृढानि धनूंष्यव तनुहि । अवगतज्यानि कुरु । किञ्च जामिमजामिं बन्धुमबन्धुं शत्रून्प्रमृणीहि । प्रजहि । यद्वा । जामिं यः पूर्वं प्रहृतस्तम् । अजामिं पूर्वमप्रहृतम् । एवं भूतान् शत्रून् जहि । प्रहृतोऽयमित्यपेक्शां मा क्रुथाः । आविष्कृणुष्वेत्यत्र संहितायामिदुदुपधस्य चाप्रत्ययस्येति षत्वम् । तनुहि । तनोतेर्लोट्युतश्च प्रत्ययाच्छन्दसि वावचनमिति हेर्लुगभावः । यातुजूनाम् । जु गतौ । क्विब्वचीत्यादिना क्विप् । दीर्घः । आमि छान्दसो नुम् । मृणीहि । मृङ् प्राणत्यागे । अन्तर्भावितण्यर्थस्य लोटि बहुलं छन्दसीति विकरणस्य श्ना । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३