मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् ६

संहिता

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् ।
विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥

पदपाठः

सः । ते॒ । जा॒ना॒ति॒ । सु॒ऽम॒तिम् । य॒वि॒ष्ठ॒ । यः । ईव॑ते । ब्रह्म॑णे । गा॒तुम् । ऐर॑त् ।
विश्वा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑नि । रा॒यः । द्यु॒म्नानि॑ । अ॒र्यः । वि । दुरः॑ । अ॒भि । द्यौ॒त् ॥

सायणभाष्यम्

यविष्ठ युवतम । यद्वा । देवानां हवींषि मिश्रयितृतम हे अग्ने यः पुमानीवते गमनवते कल्याणहेतुभूतागमनाय ब्रह्मणे परिवृधाय तुभ्यं गातुम् । गीयत उच्चार्यत इति गातुः स्तोत्रम् । तदैरत् । प्रेरयति । स पुमान् ते तव सुमतिं कल्याणकरीमनुग्रहात्मिकां बुद्धिं जानाति । लभत इत्यर्थः । अस्मैस्तोत्रं कृतवते यजमानाय तदर्थं विश्वानि सुदिनानि शोभनानि दिनानि रायो धनानि द्युम्नानि द्युतिमन्ति रत्नकनकादीनि दुरो गृहानभि अभिलक्ष्यार्यो यज्ञानां स्वामी त्वं वि द्यौत् । विशेषेन द्योतस्व । केचिदत्र वाक्यभेदमङ्गीकुर्वते । स्तोत्रं कृतवते यजमानाय विश्वानि सुदिनान्यभ्युदयकारीणि भवन्ति । रायः । रान्ति क्षीरादीनीति रायो गोधनानि । द्युम्नानि द्योतमानानि कनकादीनि चास्मै भवन्ति । अर्यः कर्मणामनुष्थत स यजमानो दुरो गृहानभिवि द्यौत् । विशेशेण द्योतते । ईवते । ई गतौ । क्विप् । तदस्यास्तीति मतुप् । छन्दसीर इति मतुपो वत्वम् । ऐरत् । ईर गतौ । यद्वृत्तयोगादनिघातः । अर्यः । ऋ गतौ । अर्यः स्वामिवैश्ययोरिति यत्प्रत्ययान्तो निपातितः । स्वामिन्यन्तोदात्तत्वम् । द्यौत् । द्युत दीप्तौ । छान्दसे लुङि द्युद्भ्यो लुङीति परस्मैपदम् । बहुलं छन्दसीत्यडभावः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४