मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् ७

संहिता

सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥

पदपाठः

सः । इत् । अ॒ग्ने॒ । अ॒स्तु॒ । सु॒ऽभगः॑ । सु॒ऽदानुः॑ । यः । त्वा॒ । नित्ये॑न । ह॒विषा॑ । यः । उ॒क्थैः ।
पिप्री॑षति । स्वे । आयु॑षि । दु॒रो॒णे । विश्वा॑ । इत् । अ॒स्मै॒ । सु॒ऽदिना॑ । सा । अ॒स॒त् । इ॒ष्टिः ॥

सायणभाष्यम्

हे अग्ने यः पुमान् नित्येन यावज्जीवं सङ्कल्पितेनाग्निहोत्रादिसाधनभूतेन हविषा त्वा त्वां पिप्रीषिति । प्रीणयितुमिच्छति । यश्चोक्थैः शस्त्रईः प्रीणयितुमिच्छति सेत् स एव पुमान सुभगः शोभनधनः सौभाग्यवान्वा सुदानुः शोभनदानोपेतश्चास्तु किञ्च दुरोणे दुरवने कृच्छ्रलभ्ये स्वे स्वकीय आयुशि शतवर्षाख्ये जीवने तिष्ठतु । अस्मै यजमानाय विश्वा सर्वाणि सुदिना शोभनानि दिनानि भवन्तु । अस्य सेष्टिः स यज्ञोऽसत् । फलसाधनसमर्थो भवतु । पिप्रीशति । प्रीञ् तर्पने । धातोः कर्मण इति सन् । असत् । अस्तेर्लेट्यडागमः । इष्टिः मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४