मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् ९

संहिता

इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् ।
क्रीळ॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ॥

पदपाठः

इ॒ह । त्वा॒ । भूरि॑ । आ । च॒रे॒त् । उप॑ । त्मन् । दोषा॑ऽवस्तः । दी॒दि॒ऽवांस॑म् । अनु॑ । द्यून् ।
क्रीळ॑न्तः । त्वा॒ । सु॒ऽमन॑सः । स॒पे॒म॒ । अ॒भि । द्यु॒म्ना । त॒स्थि॒ऽवांसः॑ । जना॑नाम् ॥

सायणभाष्यम्

हे अग्ने इह रक्षोहननाख्ये कर्मणि यद्वास्मिल्लोके यः पुरुषो दोषावस्ता रात्रावहनि च दीदिवांसं दीप्यमानं त्वामनु द्य़ुन्वहं त्मन् आत्मना स्वयमेवोप समीपे भूरि भूयुष्थं यथा भवति तथा चरेत् । परिचरति । तस्माद्वयमपि जनानां शत्रूणां द्युम्ना द्युम्नानि धनान्यभि तस्थिवांसस्त्वत्प्रसादादात्मसात्कुर्वन्तोऽत एव क्रीळन्तः स्वे स्वे गृहे पुत्रपौत्रादिभिः सह संक्रीडमानास्तथा सुमनसः शोभनमनस्काः सन्तस्त्वां सपेम । परिचरेम । यद्वा । दोशावस्तरिति सम्बुद्धिः । दोषाया रात्रिकृतस्य तमसो वस्तराच्छादयितर्निवारयितः । त्मन् । आत्मन्यब्दस्य तृतीयायाः सुपां सुलुगिति लुक् । मन्त्रेष्वाङ्यादेरात्मन इत्याकारलोपः । दोषावस्तः । द्वन्द्व पक्शे कार्तकौजपादयश्चेति पूर्वपदप्रकृतिस्वरः । सम्बुद्धिपक्श आमन्त्रितस्य पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । सपेम । षप समवाये । लिङि रूपम् । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४