मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् १०

संहिता

यस्त्वा॒ स्वश्व॑ः सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न ।
तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥

पदपाठः

यः । त्वा॒ । सु॒ऽअश्वः॑ । सु॒ऽहि॒र॒ण्यः । अ॒ग्ने॒ । उ॒प॒ऽयाति॑ । वसु॑ऽमता । रथे॑न ।
तस्य॑ । त्रा॒ता । भ॒व॒सि॒ । तस्य॑ । सखा॑ । यः । ते॒ । आ॒ति॒थ्यम् । आ॒नु॒षक् । जुजो॑षत् ॥

सायणभाष्यम्

हे अग्ने यः पुमान् स्वश्वः शोभनाश्वोपेतः सुहिरण्यो यागयोग्यधनोपेतो वसुमता व्रीह्यादिधनयुक्तेन रथेन सहितः सन् त्वामुपयाति । परिचरनार्थं तव समीपं गच्छति । तस्य पुंसास्त्राता सर्वदुरितेभ्यो रक्षको भवसि । यश्च पुमान् ते तदातिथ्यमतिथियोग्यां पूजमानुशगनुक्रमेण जुजोषत् प्रापयति तस्यः पुंसः सखा तदुचितफलप्रदानेनोपकर्ता भवसि ॥ उपयाति । सह सुपेत्यत्र सहेति योगविभागात्समासः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । तिङिचोचात्तवतीति गतेर्निघातः । आतिथ्यम् । अतिथिशब्दात्तादर्थ्ये अतिथेर्ञ्य इति ञ्य प्रत्ययः । प्रत्ययस्वरः । जुजोशत् । जोषयतेर्लङि बहुलं छन्दसीति शपः श्लुः । अडागमः । छन्दस्युभयथेति तिप आर्धधातुकत्वाण्णिलोपः । अभ्यस्तानामादिरित्याद्युदात्तः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४