मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् ११

संहिता

म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय ।
त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥

पदपाठः

म॒हः । रु॒जा॒मि॒ । ब॒न्धुता॑ । वचः॑ऽभिः । तत् । मा॒ । पि॒तुः । गोत॑मात् । अनु॑ । इ॒या॒य॒ ।
त्वम् । नः॒ । अ॒स्य । वच॑सः । चि॒कि॒द्धि॒ । होतः॑ । य॒वि॒ष्ठ॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दमू॑नाः ॥

सायणभाष्यम्

हे होतर्देवानामह्वातर्यविष्ठ युवतम सुक्रतो शोभनप्रज्ञ हे अग्ने वचोभिस्त्वदुद्देशेन कृतैः स्तोत्रैः समुपजाता येयं बन्धुता बन्धुभावस्तया बन्धुतया महो महतो राक्षासान्रुजामि । भजज्मि । तत्तादृशं स्तोत्रात्मकं वचः पितुरुत्पादियितुर्गोतमादृषेः सकाशान्मा वामदेवं मामन्विमाय । दमूना दान्तमना दानमना वा शत्रूनामुपक्षपयिता वा तादृशस्त्वं नोऽस्मदीयस्यास्य वचसः स्तोत्रात्मकमेतद्वाक्यं चिकिद्धि । जानीहि । चिकिद्धि । कितज्ञाने । जौहोत्यादिकः । लोटि रूपम् । होतः । पादादित्वात् षाष्ठिकमाद्युदात्तत्वम् । इतरयोस्तु नामन्त्रिते समानाधिकरण इति प्रथमस्याविद्यमानवद्भावनिषेधादपादादित्वेन निघातः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५