मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ४, ऋक् १४

संहिता

त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् ।
उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥

पदपाठः

त्वया॑ । व॒यम् । स॒ऽध॒न्यः॑ । त्वाऽऊ॑ताः । तव॑ । प्रऽनी॑ती । अ॒श्या॒म॒ । वाजा॑न् ।
उ॒भा । शंसा॑ । सू॒द॒य॒ । स॒त्य॒ऽता॒ते॒ । अ॒नु॒ष्ठु॒या । कृ॒णु॒हि॒ । अ॒ह्र॒या॒ण॒ ॥

सायणभाष्यम्

अह्रयाण् अलज्जितगमन । अह्रयाणोऽह्रीतयान इति यास्कः । तादृश हे अग्ने वयं स्तोतारस्त्वया सधन्यस्त्वत्प्रसादात्समानधनास्त्वोतास्त्वया रक्षिता वयं तव प्रणीती प्रणीत्या तव प्रेरणेनानुज्ञया वाजानन्नान्यश्याम । प्राप्नुयाम । हे सत्यताते । सत्यं तनोतीति वा सत्यं तायते यस्मिन्निति वा सत्यतातिः । हे सत्यताते शंसा पापानां शंसितारावुभावासन्नविप्रकृष्टौ शत्रू सूदय । जहि । अनुष्ठुयानुक्रमेण कृणुहि । अस्मिन्सूक्ते प्रतिपादितमर्थं कुरु ॥ सधन्यः । धनमेषामस्तीति छन्दसीवनपावितीप्रत्ययः । एरनेकाच इति यण् । उदात्तस्वरितयोरिति स्वरितत्वम् । अनुष्थुया । अपदुःसुषु । स्थ इति व्धीयमानः कुप्रत्ययो बहुलवचनादनुपुर्वस्यापि भवति । सुपां सुलुगिति तृतीयाया याजादेशः । अह्रयाण । ह्री लज्जायाम् । बहुलं छन्दसिति शपः श्लुभावाभावः । अनित्यमागमशासनमिति मुगभावः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५