मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् २

संहिता

मा नि॑न्दत॒ य इ॒मां मह्यं॑ रा॒तिं दे॒वो द॒दौ मर्त्या॑य स्व॒धावा॑न् ।
पाका॑य॒ गृत्सो॑ अ॒मृतो॒ विचे॑ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ॥

पदपाठः

मा । नि॒न्द॒त॒ । यः । इ॒माम् । मह्य॑म् । रा॒तिम् । दे॒वः । द॒दौ । मर्त्या॑य । स्व॒ऽधावा॑न् ।
पाका॑य । गृत्सः॑ । अ॒मृतः॑ । विऽचे॑ताः । वै॒श्वा॒न॒रः । नृऽत॑मः । य॒ह्वः । अ॒ग्निः ॥

सायणभाष्यम्

हे होत्रादयोऽमुं वैश्वानरमग्निं मा निन्दत । निन्दां मा कुरुत । स्तुतेत्यर्थः । यो देवो दीप्यमानोऽग्निः स्वधावानस्मद्दत्तेन हविर्लक्षणेनान्नेन तद्वान् सन् मर्त्याय मरणधर्माय पाकाय परिपक्वप्रज्ञाय मह्यं यौअमानायेमामिदानीं दीयमानप्रकारां रातिं धनं ददौ । दत्तवान् । स विशेश्यते । ग्रुत्सो मेधावी । मेधाव्नामैतत् । अमृतोऽमरणस्वभावो विचेता विशिष्टप्रज्ञो वैश्वानरो वैश्वर्नरैराहवनीयादिरूपेण नीयमानो नृतमो नेतृतमः फलादीनां यह्वो महान् । महन्नामैतत् । अग्निरङ्गनादिगुणविशिष्टः । तादृशमग्निं स्तुतेति भावः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः