मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् ३

संहिता

साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् ।
प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षाम् ॥

पदपाठः

साम॑ । द्वि॒ऽबर्हाः॑ । महि॑ । ति॒ग्मऽभृ॑ष्टिः । स॒हस्र॑ऽरेताः । वृ॒ष॒भः । तुवि॑ष्मान् ।
प॒दम् । न । गोः । अप॑ऽगूळ्हम् । वि॒वि॒द्वान् । अ॒ग्निः । मह्य॑म् । प्र । इत् । ऊं॒ इति॑ । वो॒च॒त् । म॒नी॒षाम् ॥

सायणभाष्यम्

द्विबर्हा द्वयोर्मध्यमोत्तमयोः स्थानयोः परिवृढस्तिग्मभृष्टिस्तीक्ष्णतेजाः सहस्ररेता बहुविधहिरण्यरेतस्कः रेतः शब्दः सारवाची । प्रभूतसारो वा । वृषभो वर्षिता कामानां तुविष्मान्बहुधन ईदृशोऽयमग्निरत्यन्तगोपितं गोः पदं न नष्टाया गोः पदमिवापगूळ्ःअमत्यन्तरहस्यम् । मनीशाशब्दो ज्ञानवाची सन्नत्र ज्ञातव्ये वर्तते । मनीषां ज्ञातव्यं महि महत्पूज्यं सामास्मदभिमतं स्तोत्रं विविद्वान् विशेषेण जानन् प्रेदु वोचत् । प्रैव ब्रवीतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः