मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् ४

संहिता

प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मज॑म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधा॑ः ।
प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ॥

पदपाठः

प्र । तान् । अ॒ग्निः । ब॒भ॒स॒त् । ति॒ग्मऽज॑म्भः । तपि॑ष्ठेन । शो॒चिषा॑ । यः । सु॒ऽराधाः॑ ।
प्र । ये । मि॒नन्ति॑ । वरु॑णस्य । धाम॑ । प्रि॒या । मि॒त्रस्य॑ । चेत॑तः । ध्रु॒वाणि॑ ॥

सायणभाष्यम्

योग्निः सुराधाः शोभनधनः स तग्मजम्भस्तीक्ष्णदंष्ट्रः सन् तपिष्थेन शोचिषातिशयेन शत्रूणां तापकेन तेजसा तान्वक्ष्यमानान् द्वेष्टॄन्प्र बभसत् । प्रकर्षेण भर्तयतु । दहत्वित्यर्थः । भस भर्त्सनदीप्त्योः । लेटीतश्च लोप इतीकारलोपः । लेटोऽडाटावित्यडागमः । तानित्युक्तं कानित्याह । ये द्वेष्टारश्चेततो जानतः । एतदुभयविशेषणम् । मित्रस्य वरुणस्य च प्रिया प्रियाणि ध्रुवाणि स्थिराणि धाम धामानि तेजः स्थानानि कर्माणि वा प्र मिनन्ति । प्रकर्षेण हिंसन्ति । मीञ् हिंसायाम् । मीनातेर्निगम इति ह्रस्वत्वम् । विकरणस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः