मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् ९

संहिता

इ॒दमु॒ त्यन्महि॑ म॒हामनी॑कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः ।
ऋ॒तस्य॑ प॒दे अधि॒ दीद्या॑नं॒ गुहा॑ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ॥

पदपाठः

इ॒दम् । ऊं॒ इति॑ । त्यत् । महि॑ । म॒हाम् । अनी॑कम् । यत् । उ॒स्रिया॑ । सच॑त । पू॒र्व्यम् । गौः ।
ऋ॒तस्य॑ । प॒दे । अधि॑ । दीद्या॑नम् । गुहा॑ । र॒घु॒ऽस्यत् । र॒घु॒ऽयत् । वि॒वे॒द॒ ॥

सायणभाष्यम्

इदमु इदमेव त्यत्प्रसिद्धं महि महत्पूज्यं महां महतां देवानामनीकं समूहरूपं सूर्यमण्दलं वैश्वानर एवेति शेषः । पूर्व्यं पूर्वकालीनं पूरकं वा यन्मण्डलमुस्रिया क्षीराद्युत्स्राविणी गौरग्निहोत्राद्यर्थं सचत । सेवते । ऋतस्योदकस्य पदे स्थानेऽन्तरिक्षेऽध्यधिकम् । यद्वा । अधीति सप्तम्यर्थानुवादः । दीद्यानं द्योतमानं गुहा गुहायां रघुष्यत् शीघ्रं स्यन्दमानं रघुयत् शीघ्रं गच्छत्सूर्यमण्दलं विवेद । वैश्वानरमेवेति ज्ञातवानस्मि ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः