मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ५, ऋक् ११

संहिता

ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दम् ।
त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं॑ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्याम् ॥

पदपाठः

ऋ॒तम् । वो॒चे॒ । नम॑सा । पृ॒च्छ्यमा॑नः । तव॑ । आ॒ऽशसा॑ । जा॒त॒ऽवे॒दः॒ । यदि॑ । इ॒दम् ।
त्वम् । अ॒स्य । क्ष॒य॒सि॒ । यत् । ह॒ । विश्व॑म् । दि॒वि । यत् । ऊं॒ इति॑ । द्रवि॑णम् । यत् । पृ॒थि॒व्याम् ॥

सायणभाष्यम्

अहं यजमानो नमसा नमस्कारेण सह पृच्छ्यमानोऽन्यैरनुयुज्यमानः सन् ऋतं वोचे । सत्यं ब्रविमि । किं तदित्युच्यते । हे जातवेदो जातानां वेदितर्जातप्रज्ञ वाग्ने तवाशसा त्वत्स्तुत्या साधनेन यदीदं धनं लब्धमस्माभिः स्यात् अस्य धनस्य त्वं क्षयसि । त्वमेवेश्वरो भवसि । तस्य धनस्य यज्ञादिद्वाराग्न्यर्थत्वादिति भावः । अत्यल्पमिदमुक्तम् । युद्ध विश्वं यत्खलु कृत्स्नं धनमस्ति तस्यापीशिषे । विश्वमिति सामान्येन यदुक्तं तदेव विशदयति । दिवि द्युलोके यदु द्रविणं यदेव धनं यच्च पृथिव्यां धनं तस्य सर्वस्य त्वमीश्वरो भवसि । यज्ञार्थं द्रव्यमुत्पन्नमिति स्मरणात् । अग्निव्यतिरेकेण यज्ञा सम्भवादिति भावः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः