मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् १

संहिता

ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् ।
त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ॥

पदपाठः

ऊ॒र्ध्वः । ऊं॒ इति॑ । सु । नः॒ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । अग्ने॑ । तिष्ठ॑ । दे॒वऽता॑ता । यजी॑यान् ।
त्वम् । हि । विश्व॑म् । अ॒भि । असि॑ । मन्म॑ । प्र । वे॒धसः॑ । चि॒त् । ति॒र॒सि॒ । म॒नी॒षाम् ॥

सायणभाष्यम्

ऊर्ध्व ऊषुण इत्येकादशर्चम् षष्ठं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयम् । ऊर्ध्व ऊ ष्वेकादशेत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदम् । सूत्रितं च । ऊर्ध्व ऊ षु णः ससस्य यद्वियुतेति पञ्च । आ. ४-१३ । इति ॥

हे अध्वरस्य होतर्यागसम्बन्धिनां देवानामाह्वातः । यद्वा । होतरित्यत्र प्रकृत्यंशोऽनुवादः । हे होमनिश्पादकाग्ने यजीयान्यष्टृतमस्त्वं नोऽस्माकमूर्ध्व ऊ षु तीष्ठ । उन्नत एव तिष्थ । नित्यमुन्नतो भवेत्यर्थः । कुत्रेति तदुच्यते । देवताता देवतातौ । देवास्तायन्ते विस्तीर्यन्तेऽत्रेति देवतातिर्यज्ञः । तस्मिन् । त्वं हि त्वं खलु विश्वं सर्वं मन्म मननीयं शत्रूणां धनमभ्यसि । अभिभवसि । किञ्च वेधसश्चित् । चित्पूजायाम् । स्तोतुरयजमानादेर्मनीषां मतिं स्तुतिं प्रतिरसि । प्रवर्धयसि । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः