मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् ३

संहिता

य॒ता सु॑जू॒र्णी रा॒तिनी॑ घृ॒ताची॑ प्रदक्षि॒णिद्दे॒वता॑तिमुरा॒णः ।
उदु॒ स्वरु॑र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ॥

पदपाठः

य॒ता । सु॒ऽजू॒र्णिः । रा॒तिनी॑ । घृ॒ताची॑ । प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः ।
उत् । ऊं॒ इति॑ । स्वरुः॑ । न॒व॒ऽजाः । न । अ॒क्रः । प॒श्वः । अ॒न॒क्ति॒ । सुऽधि॑तः । सु॒ऽमेकः॑ ॥

सायणभाष्यम्

याता संयता सुजूर्णिः शोभनजवा सुष्ठु जीर्णा पुराणी वा । घृताची घृतमञ्चतीति घृताची जुहोः । रातिनी । रातिर्धनम् । हविर्लक्षणधनवती । आज्यपूर्णा भवतीत्यर्थः । देवतातिं यज्ञं तथोराण उरु कुर्वाणोऽध्वर्युरग्निर्वा प्रदक्षिणित् । अप्रदक्षिणमेतीति प्रदक्षिणित् । प्रदक्षिणगमनो भवति । अकारलोपश्छान्दसः । नवजा नवजातस्तदानीमेवोत्पादितः स्वरुर्न । यूपशकलवाची स्परुरत्र यूपं लक्षयति । चषालवन्तः स्वरवः पृथिवाम् । ऋग्वे. ३-८-१० । इत्यादिषु स्वरुशब्देन यूपाभिधानाच्च । नकारः समुच्चये । यूपोऽप्युदु उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । उन्नतो भवति । किञ्च अक्र आक्रमिता । सुमेकः सुदीप्तः सुधितः स्वधितिरित्यर्थः । सोऽपि पश्वः पशूननक्ति । गच्छति । यद्वा । सुधितः स्वरुरेवोदु उत्कृष्टः पश्वः पशूननक्ति । स्वरुणा पशुमनक्तीति श्रुतेः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः