मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् ४

संहिता

स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् ।
पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥

पदपाठः

स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । ऊ॒र्ध्वः । अ॒ध्व॒र्युः । जु॒जु॒षा॒णः । अ॒स्था॒त् ।
परि॑ । अ॒ग्निः । प॒शु॒ऽपाः । न । होता॑ । त्रि॒ऽवि॒ष्टि । ए॒ति॒ । प्र॒ऽदिवः॑ । उ॒रा॒णः ॥

सायणभाष्यम्

बर्हिषि वेद्यां स्तीर्ण आस्तृते सत्यग्नावाहवनीयादिके समिधाने सम्यगिध्यमाने च सत्यध्वर्युरध्वरस्य नेता जुजुषाणो देवान्प्रीणयन्नोर्ध्वोऽस्थात् । तिष्ठति । होता होमनिष्पादकः प्रदिवः । पुराणनामैतत् । पुरातन उराणः स्वल्पमपि हविर्देवहोग्यत्वं सम्पादनेनोरु कुर्वाणः । उराण उरु कुर्वाण इति निरुक्तम् । यद्वै देवैर्जोष्यते हविस्तद्गिरिमात्रं वर्धत इति श्रुतेरग्नेरुरुकरणमुचितम् । ईदृशोऽग्निः पशुपा न पशूनां पालक इव पशून् त्रिविष्टि त्रिरावृत्य पर्येति त्रिर्हि पर्यग्निः क्रियते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः