मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् ५

संहिता

परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ ।
द्रव॑न्त्यस्य वा॒जिनो॒ न शोका॒ भय॑न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥

पदपाठः

परि॑ । त्मना॑ । मि॒तऽद्रुः॑ । ए॒ति॒ । होता॑ । अ॒ग्निः । म॒न्द्रः । मधु॑ऽवचाः । ऋ॒तऽवा॑ ।
द्रव॑न्ति । अ॒स्य॒ । वा॒जिनः॑ । न । शोकाः॑ । भय॑न्ते । विश्वा॑ । भुव॑ना । यत् । अभ्रा॑ट् ॥

सायणभाष्यम्

उक्तमेवार्थं स्पष्टयति । अयं होता होमनिष्पादकोऽग्निस्त्मनात्मना स्वरूपेणैव मितद्रुः परिमितगतिः सन् पर्येति । परितो गच्छति पशुम् । कीदृशोऽयम् । मन्द्रो मादनीयो मोदयिता वा मधुवचा मधुरवचन ऋतावा यज्ञवान् । वाजिनो हविष्मतोऽस्याग्नेः शोका न दीप्तयोऽपि । न शब्दोऽप्यर्थे । द्रवन्ति । गच्छन्ति परितः । यद्वा । नकार उपमार्थीयः । वाजिनो न अश्वा इव द्रवन्तीति योज्यम् । यद्यस्मादयमभ्राट् । भ्राजते । तस्माद्विश्वा भुवना सर्वाणि भूतजातानि भयन्ते । भीतानि भवन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः