मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् ६

संहिता

भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारु॑ः ।
न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॒॑ रेप॒ आ धु॑ः ॥

पदपाठः

भ॒द्रा । ते॒ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । स॒म्ऽदृक् । घो॒रस्य॑ । स॒तः । विषु॑णस्य । चारुः॑ ।
न । यत् । ते॒ । शो॒चिः । तम॑सा । वर॑न्त । न । ध्व॒स्मानः॑ । त॒न्वि॑ । रेपः॑ । आ । धु॒रिति॑ धुः ॥

सायणभाष्यम्

हे स्वनीक शोभनज्वालाग्ने घोरस्य भीतजनकस्यापि सतो विषुणस्य विष्वक् सर्वतो व्याप्तस्य ते तव चारू रमणीया भद्रा स्तुत्या कल्याणी वा मूर्तिः सन्दृक् संदृष्टिः । सम्यक् दृश्या भवतीत्यर्थः । यद्यस्मात्ते शोचिर्दीप्तिं तमसान्धकाररेण न वरन्त । वारयन्ति निशाः । यस्माच्च ध्वस्मानोध्वंसका राक्षसादयस्ते तन्वि तव शरीरे रेपः पापं ध्वंसनादिरूपं नाधुः । न दधति । न कुर्वन्ति । अतः संदृगिति संबन्धः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः