मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् ७

संहिता

न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ ।
अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥

पदपाठः

न । यस्य॑ । सातुः॑ । जनि॑तोः । अवा॑रि । न । मा॒तरा॑पि॒तरा॑ । नु । चि॒त् । इ॒ष्टौ ।
अध॑ । मि॒त्रः । न । सुऽधि॑तः । पा॒व॒कः । अ॒ग्निः । दी॒दा॒य॒ । मानु॑षीषु । वि॒क्षु ॥

सायणभाष्यम्

जनितोर्जनयितुर्वृष्ट्युत्पादकस्य यस्य वैश्वानरस्य सातु सनिः पश्वदिलक्षणं दानं दीप्तिर्वा नावारि । केनापि न वार्यते । किञ्च मातरा पितरा माता पितरौ द्यावापृथिव्यौ यस्येष्टौ प्रेषने नू चित् क्षिप्रमेव न प्रभवतः । अधापि च मित्रो न सखेव सुधितः सुतृप्तः पावकः शोधकोऽग्निर्मानुषीषु मनोः सम्बन्धिनीषु विक्षु प्रजासु दीदाय । दीप्यते । दीपी दीप्तौ । पकारलोपश्छान्दसः । व्यत्ययेन परस्मैपदम् । लिट्यभ्यासस्य ह्रस्वे कृते तुजादित्वाद्दीर्घत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः