मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् ८

संहिता

द्विर्यं पञ्च॒ जीज॑नन्त्सं॒वसा॑ना॒ः स्वसा॑रो अ॒ग्निं मानु॑षीषु वि॒क्षु ।
उ॒ष॒र्बुध॑मथ॒र्यो॒३॒॑ न दन्तं॑ शु॒क्रं स्वासं॑ पर॒शुं न ति॒ग्मम् ॥

पदपाठः

द्विः । यम् । पञ्च॑ । जीज॑नन् । स॒म्ऽवसा॑नाः । स्वसा॑रः । अ॒ग्निम् । मानु॑षीषु । वि॒क्षु ।
उ॒षः॒ऽबुध॑म् । अ॒थ॒र्यः॑ । न । दन्त॑म् । शु॒क्रम् । सु॒ऽआस॑म् । प॒र॒शुम् । न । ति॒ग्मम् ॥

सायणभाष्यम्

मानुषीषु मनोः सम्बन्धिनीषु विक्षु प्रजासु संवसानाः सङ्गच्छमाना द्विः पञ्च दश स्वसारोऽङ्गुलयो यमग्निं जीजनन् । मन्थनेनोदपादयन् । जनीप्रादुर्भावे । लुङि छान्दसत्वादडभावः । कीदृश्य अङ्गुलयः । अथर्यो न स्त्रिय इव । कीदृशमग्निम् । उषर्बुधमुषसि बुध्यमानं दन्तं हविषां भक्षकं शुक्रं रश्मिभिर्दीप्यमानं स्वासं शोभनास्यं तिग्मं तीक्ष्णं परशुं न परशुमिव रक्षसां हन्तारमिति शेषः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः