मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ६, ऋक् १०

संहिता

ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चर॑न्ति ।
श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्ध॑ः ॥

पदपाठः

ये । ह॒ । त्ये । ते॒ । सह॑मानाः । अ॒यासः॑ । त्वे॒षासः॑ । अ॒ग्ने॒ । अ॒र्चयः॑ । चर॑न्ति ।
श्ये॒नासः॑ । न । दु॒व॒स॒नासः॑ । अर्थ॑म् । तु॒वि॒ऽस्व॒नसः॑ । मारु॑तम् । न । शर्धः॑ ॥

सायणभाष्यम्

हे अग्ने ये ह खलु त्ये ते प्रसिद्धाः सहमानाः शत्रूनभिभवन्तोऽयासो गमनशीलास्त्वेषासो दीप्ता दुवसनासः परिचरणीयास्त्ते त्वदीया अर्चयो रश्मयः श्येनासो न अश्वा इवार्थं गन्तव्यं चरन्ति । गच्छन्ति । कीदृशाः । मारुतं शर्धो न मरुत्सम्बन्धी गण इव तुविष्वणसस्तुविस्वना अधिकध्वनयो भवन्ति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः