मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् ३

संहिता

ऋ॒तावा॑नं॒ विचे॑तसं॒ पश्य॑न्तो॒ द्यामि॑व॒ स्तृभि॑ः ।
विश्वे॑षामध्व॒राणां॑ हस्क॒र्तारं॒ दमे॑दमे ॥

पदपाठः

ऋ॒तऽवा॑नम् । विऽचे॑तसम् । पश्य॑न्तः । द्याम्ऽइ॑व । स्तृऽभिः॑ ।
विश्वे॑षाम् । अ॒ध्व॒राणा॑म् । ह॒स्क॒र्तार॑म् । दमे॑ऽदमे ॥

सायणभाष्यम्

ऋतावानममायिनं विचेतसं विशिष्टज्ञानं स्तृभिर्नक्शत्रैः परिवृतं द्यामिव । विस्फुलिंगैः समेतं विश्वेषां सर्वेषामध्वराणां यज्ञानां हस्कर्तारं प्रभासकं वृद्धेः कर्तारं वाग्निं पश्यन्त ऋत्विगादयो दमे दमे सर्वस्मिन्यज्ञगृहे जगृभ्रिर इति पूर्वेण सम्बन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः