मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् ४

संहिता

आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥

पदपाठः

आ॒शुम् । दू॒तम् । वि॒वस्व॑तः । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि ।
आ । ज॒भ्रुः॒ । के॒तुम् । आ॒यवः॑ । भृग॑वाणम् । वि॒शेऽवि॑शे ॥

सायणभाष्यम्

योऽग्निर्विश्वाश्चर्षणीः सर्वाः प्रजा अभि भवति अयवो मनुष्याः । आयव इति मनुष्यनाम आयवो यदव इति मनुष्यनामसु नाठात् । आशुं क्षिप्रगामिनं विवस्वतो मनुष्यस्य यजमानस्य दूतम् । विवस्वत इति मनुष्यनामेदम् । केतुं प्रज्ञापकं भृगवाणं भृगुवदाचरन्तम् । दीप्यमानमित्यर्थः । सर्वपातिपदिकेभ्यः क्विब्वक्तव्य इति क्विप् । तदन्ताल्लटो व्यत्ययेन शानच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे प्राप्ते वृषादेकारकृतिगणत्वादाद्युदात्तत्त्वम् । तमग्निं विशे विशे सर्वस्यै प्रजाया आ जभ्रुः । आजह्रुः । हृग्रहोर्भ इति भत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः