मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् ५

संहिता

तमीं॒ होता॑रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे॑दिरे ।
र॒ण्वं पा॑व॒कशो॑चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ॥

पदपाठः

तम् । ई॒म् । होता॑रम् । आ॒नु॒षक् । चि॒कि॒त्वांस॑म् । नि । से॒दि॒रे॒ ।
र॒ण्वम् । पा॒व॒कऽशो॑चिषम् । यजि॑ष्ठम् । स॒प्त । धाम॑ऽभिः ॥

सायणभाष्यम्

ऋत्विगादयो मनुष्या आनुषक् आनुपुर्व्येण होतारं देवानामाह्वातारं चिकित्वांसं जानन्तम् । कित ज्ञाने । लिटः क्वसुः । द्विर्भावहलादिशेशचुत्वदीर्घाः । प्रत्ययस्वरः । तमीं तमिममग्निं नि षेदिरे । निशादयन्ति स्म । कीदृशम् । रण्वं रमणीयं पावकशोचिषं शोधकदीप्तिं यजिष्टं यष्टृतमं सप्त सप्तभिर्धामभिस्तेजोभिर्युक्तं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः