मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् ६

संहिता

तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् ।
चि॒त्रं सन्तं॒ गुहा॑ हि॒तं सु॒वेदं॑ कूचिद॒र्थिन॑म् ॥

पदपाठः

तम् । शश्व॑तीषु । मा॒तृषु॑ । वने॑ । आ । वी॒तम् । अश्रि॑तम् ।
चि॒त्रम् । सन्त॑म् । गुहा॑ । हि॒तम् । सु॒ऽवेद॑म् । कू॒चि॒त्ऽअ॒र्थिन॑म् ॥

सायणभाष्यम्

शश्वतीषु बह्वीषु मातृष्वप्सु । ताः सस्यादिनिर्मातृकत्वान्मातर इत्युच्यन्ते । वन आ वृक्षसमूहे च । आकारश्चार्थे । सन्तं विद्यमानं वीतं कान्तमश्रितं प्राणिभिर्वाहभयादसेवितम् । दुरासदमित्यर्थः । चित्रं चायनीयं गुहा गुहायां हितं निहितं सुवेदं सुविज्ञानं सुधनं वा कूचिदर्थिनं क्वापि हविष्यर्थिनं समिदाज्यपुरोडाशादि हविः स्वीकुर्वन्तम् । क्वेत्यत्र वकारस्य छान्दसे सम्प्रसारने परपूर्वत्वे च हल इत्यदीर्घत्वम् । एवंभूतमग्निं निषेदिर इति पूर्वेन सम्बन्धः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः