मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् ७

संहिता

स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णय॑न्त दे॒वाः ।
म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥

पदपाठः

स॒सस्य॑ । यत् । विऽयु॑ता । सस्मि॑न् । ऊध॑न् । ऋ॒तस्य॑ । धाम॑न् । र॒णय॑न्त । दे॒वाः ।
म॒हान् । अ॒ग्निः । नम॑सा । रा॒तऽह॑व्यः । वेः । अ॒ध्व॒राय॑ । सद॑म् । इत् । ऋ॒तऽवा॑ ॥

सायणभाष्यम्

प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि ससस्य यद्वियुतेत्याद्याः पञ्चर्चः । सूत्रितं च । ससस्य यद्वियुतेति पञ्च । आ. ४-१३ । इति ।

यद्यमग्निं देवाः स्तोतारः ससस्य स्वप्नस्य वियुता वियुते वियोते । उषसीत्यर्थः । ऋतस्योदकस्य धामन् धामानि स्थाने सस्मिन् सर्वास्मिन्नूधन्नूधनि यज्ञे रणयन्त । रमयन्ति । स्तोत्रैरिति शेषः । महान्प्रभुतो नमसा नमस्कारेन रातहव्यो दत्तहविष्क ऋतावा सत्यवान् सोऽग्निः सदमित्सदैवाध्वरायाध्वरं यजमानैः कृतंयज्ञम् । सुपां सुपो भवन्तीति व्यक्तव्यम् । म. ७-१-३९ । इति वचनादत्र द्वितीयार्थे चतुर्थी । वेः । वेत्ति । जानाति । यद्वा । देवा इन्द्रादयः ससस्य ऋत्विग्भिः सेव्यस्य यद्यस्याग्नेर्वियुता विशिष्टे सस्मिन् भजनीय ऋतस्य सत्यस्य धामन् धामनि योनावूधन्नूधनि यज्ञे रणयन्त । रमयन्ते । महान्प्रभूतो नमसा हविषा रातहव्यो दत्तहविष्क ऋतावा सत्यवान् सोऽग्निरध्वराय यज्ञार्थं सदमित्यदैव वेः । गन्ता भवति । अध्वराय यज्ञं वेः कामयते वा ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः