मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् ९

संहिता

कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॒॑र्चिर्वपु॑षा॒मिदेक॑म् ।
यदप्र॑वीता॒ दध॑ते ह॒ गर्भं॑ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ॥

पदपाठः

कृ॒ष्णम् । ते॒ । एम॑ । रुश॑तः । पु॒रः । भाः । च॒रि॒ष्णु । अ॒र्चिः । वपु॑षाम् । इत् । एक॑म् ।
यत् । अप्र॑ऽवीता । दध॑ते । ह॒ । गर्भ॑म् । स॒द्यः । चि॒त् । जा॒तः । भव॑सि । इत् । ऊं॒ इति॑ । दू॒तः ॥

सायणभाष्यम्

हे अग्ने रुशतो रोचमानस्य ते तव सम्बध्यत्रैम । एमञ् शब्देन गमन मार्ग उच्यते । एम वर्त्म कृष्णं कृष्णवर्णं भवति । भास्तव संबन्धीनि दीप्तिः पुरः पुरस्ताद्भवति । चरिष्णु सञ्चरणशीलमर्चिस्त्वदीयं तेजो वपुषां वपुष्मतां रूपवताम् । तेजस्विनामित्यर्थः । एकमिन्मुख्येमेव भवति । यद्यं त्वामप्रवीता अनुपगता यजमाना गर्भं त्वज्जननहेतुमरणिं दधते ह । धारयन्ति खलु । स त्वं सद्यश्चित्सद्य एव जात उत्पन्नः सन् दूतो भवसीदु । यजमानस्य दूतो भवस्येव ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः