मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् १०

संहिता

स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः ।
वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जम्भै॑ः ॥

पदपाठः

स॒द्यः । जा॒तस्य॑ । ददृ॑शानम् । ओजः॑ । यत् । अ॒स्य॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः ।
वृ॒णक्ति॑ । ति॒ग्माम् । अ॒त॒सेषु॑ । जि॒ह्वाम् । स्थि॒रा । चि॒त् । अन्ना॑ । द॒य॒ते॒ । वि । जम्भैः॑ ॥

सायणभाष्यम्

सद्यो जातस्यारणिनिर्मन्थनादनन्तरमेवोत्पन्नस्याग्नेरोजस्तेजो ददृशानम् । ऋत्विगादिभिर्दृश्यमानं भवतीति शेषः । वातो वायुर्यद्यदास्याग्नेः शोचिर्दीप्तिमनु लक्षीकृत्य वाति गच्छति तदा सोऽयमग्निरतसेषु वृक्षसङ्घेषु तिग्मां तीक्ष्णां जिह्वां ज्वालां वृणक्ति । संयोजयति । स्थिरा चित् स्थिराण्यप्यन्नान्नरूपाणि काष्थादीनि जंभैस्तेजोभिर्विदयते । विखण्डयति । भक्षयतीत्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः