मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ७, ऋक् ११

संहिता

तृ॒षु यदन्ना॑ तृ॒षुणा॑ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः ।
वात॑स्य मे॒ळिं स॑चते नि॒जूर्व॑न्ना॒शुं न वा॑जयते हि॒न्वे अर्वा॑ ॥

पदपाठः

तृ॒षु । यत् । अन्ना॑ । तृ॒षुणा॑ । व॒वक्ष॑ । तृ॒षुम् । दू॒तम् । कृ॒णु॒ते॒ । य॒ह्वः । अ॒ग्निः ।
वात॑स्य । मे॒ळिम् । स॒च॒ते॒ । नि॒ऽजूर्व॑न् । आ॒शुम् । न । वा॒ज॒य॒ते॒ । हि॒न्वे । अर्वा॑ ॥

सायणभाष्यम्

यद्योऽग्निस्त्रिषु क्षिप्रमेवान्नान्नानि काष्ठादीनि तृषुणा क्षिप्रेण रश्मिसमूहेन ववक्ष । वहति । दहतीत्यर्थः । यह्वो महान् सोऽग्निस्तृषुमात्मानं दूतं कृणुते । यजमानदूतं करोति । निजूर्वन् काष्ठानि निःशेषेण दहन्नग्निर्वातस्य वायोर्मेळिं बलं सचते । सेवते । आशुं न । अश्वसादी यथाश्वं तथार्वा गमनशीलोऽग्निः स्वरश्मिं वाजयते । वाजिनं बलवन्तं करोति । हिन्वे । प्रेरयति च ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः