मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ८, ऋक् १

संहिता

दू॒तं वो॑ वि॒श्ववे॑दसं हव्य॒वाह॒मम॑र्त्यम् ।
यजि॑ष्ठमृञ्जसे गि॒रा ॥

पदपाठः

दू॒तम् । वः॒ । वि॒श्वऽवे॑दसम् । ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ।
यजि॑ष्ठम् । ऋ॒ञ्ज॒से॒ । गि॒रा ॥

सायणभाष्यम्

दूतं व इत्यष्टर्चमष्टमं सूक्तं वामदेवस्यार्षं गायत्रीछन्दस्कमग्निदेवताकम् । तथा चानुक्रम्यते । दूतं वोऽष्टौ गायत्रं त्विति । व्यूळ्हे दशरात्रे प्रथमे छन्दोम इदं सूक्तं जातवेदस्यनिविद्धानीयम् । तथा च सुत्रितम् । दूतं व इत्याग्निमारुतम् । आ. ८-९ । इति । इदमादिके द्वे सूक्ते प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दसि विनियुक्ते । सुत्रितं च । अग्ने पावक दूतं व इति सूक्ते । आ. ४-१३ । इति ॥

हे अग्ने विश्ववेदसम् । विश्वं समस्तं वेदो धनं यस्यासौ विश्ववेदाः । तं सर्वविदं वा हव्यवाहं देवेभ्यो हविषां वोढारममर्त्यममरणधर्माणं यजिष्थमतिशयेन यष्तारं दूतं देवानां वस्त्वाङ्गिरा स्तुतिरूपया वाचा ऋञ्जसे । यजमानोऽहं प्रसाधयामि । वर्धयामीत्यर्थः । ऋञ्जतिः प्रसाधनकर्मेति यास्कः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः