मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ८, ऋक् ४

संहिता

स होता॒ सेदु॑ दू॒त्यं॑ चिकि॒त्वाँ अ॒न्तरी॑यते ।
वि॒द्वाँ आ॒रोध॑नं दि॒वः ॥

पदपाठः

सः । होता॑ । सः । इत् । ऊं॒ इति॑ । दू॒त्य॑म् । चि॒कि॒त्वान् । अ॒न्तः । ई॒य॒ते॒ ।
वि॒द्वान् । आ॒ऽरोध॑नम् । दि॒वः ॥

सायणभाष्यम्

सोऽग्निर्होत देवानामाह्वाता भवति । सेचु स एवाग्निर्द्यूत्यं देवानां दूतकर्म चिकित्वान् जानन् दिवः स्वर्नस्यारोधनमारोहणमारोहणार्हं देवानां स्थानं च विद्वान् जानन् अन्तर्द्यावापृथिव्योर्मध्य ईयते । गच्छति । ईङ् गतौ । दिवादिभ्यः श्यन् । तिङ्ग तिङ इति निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः