मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ८, ऋक् ५

संहिता

ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः ।
य ईं॒ पुष्य॑न्त इन्ध॒ते ॥

पदपाठः

ते । स्या॒म॒ । ये । अ॒ग्नये॑ । द॒दा॒शुः । ह॒व्यऽदा॑तिभिः ।
ये । ई॒म् । पुष्य॑न्तः । इ॒न्ध॒ते ॥

सायणभाष्यम्

ते तव यजमानाः स्याम । भूयाम । त इत्युक्तम् । क इत्युच्यते । ये यजमाना अग्नये हव्यदातिभिर्हविर्दानैर्ददाशुः । प्रीतिं कुर्वन्ति । ईमेनमग्निं पुष्यन्तो वर्धयन्तो ये यजमाना इन्धते । समिद्भिर्दीप्तियुक्तं कुर्वन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः