मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ८, ऋक् ६

संहिता

ते रा॒या ते सु॒वीर्यै॑ः सस॒वांसो॒ वि शृ॑ण्विरे ।
ये अ॒ग्ना द॑धि॒रे दुवः॑ ॥

पदपाठः

ते । रा॒या । ते । सु॒ऽवीर्यैः॑ । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ।
ये । अ॒ग्ना । द॒धि॒रे । दुवः॑ ॥

सायणभाष्यम्

ये यजमाना अग्नाग्नौ । सुपां सुलुगित्याकारः । दुवः परिचर्यां दधिरे । धारयन्ति । कुर्वन्तित्यर्थः । ते ससवांसोऽग्निं सम्भजमाना राया पश्वादिलक्षणेन धनेन वि शृण्विरे । विश्रूयन्ते । प्रख्यायन्ते । ते सुवीर्यैः शोभनवीर्योपेतैः पुत्रादिभिश्च विश्रूयन्ते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः