मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ८, ऋक् ८

संहिता

स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् ।
अति॑ क्षि॒प्रेव॑ विध्यति ॥

पदपाठः

सः । विप्रः॑ । च॒र्ष॒णी॒नाम् । शव॑सा । मानु॑षाणाम् ।
अति॑ । क्षि॒प्राऽइ॑व । वि॒ध्य॒ति॒ ॥

सायणभाष्यम्

विप्रो मेधावी । विप्र इति मेधाविनाम विप्रो धीर इति तन्नामसु पाठात् । सोऽग्निः शवसा बलेन । शव इति बलनाम पाजः शव इति तन्नामसु पाठात् । मानुषाणां मनुसम्बन्धिनां चर्षणीनां प्रजानां क्षिप्रेव क्षेप्याण्येव विनाशयितुमर्हाणि । दुरितानीति शेषः । अति विध्यति । अति विध्यतु । अतिशयेन नाशयतु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः