मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ९, ऋक् २

संहिता

स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः ।
दू॒तो विश्वे॑षां भुवत् ॥

पदपाठः

सः । मानु॑षीषु । दुः॒ऽदभः॑ । वि॒क्षु । प्र॒ऽअ॒वीः । अम॑र्त्यः ।
दू॒तः । विश्वे॑षाम् । भु॒व॒त् ॥

सायणभाष्यम्

दूळभो दुर्दभो राक्षसादिना दुर्हिंसो मानुषीषु मनुसम्बन्धिनीषु विक्षु प्रजासु प्रावीः प्रकर्षेण गन्तामर्त्योऽमरणधर्मा सोऽग्निर्विश्वेषां सर्वेषां देवानां दूतो भुवत् । भवतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः