मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ९, ऋक् ३

संहिता

स सद्म॒ परि॑ णीयते॒ होता॑ म॒न्द्रो दिवि॑ष्टिषु ।
उ॒त पोता॒ नि षी॑दति ॥

पदपाठः

सः । सद्म॑ । परि॑ । नी॒य॒ते॒ । होता॑ । म॒न्द्रः । दिवि॑ष्टिषु ।
उ॒त । पोता॑ । नि । सी॒द॒ति॒ ॥

सायणभाष्यम्

सोऽग्निः सद्म यज्ञगृहं परि णीयते । ऋत्विग्भिः परितो नीयते । नीयमानः सन् दिविष्टिषु यागेषु मन्द्रो मदनीयः स्तुत्यः सोऽग्निर्होता च भवति । उतापि च पोता सन्नि षीदति । यज्ञगृह उपविशति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः