मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ९, ऋक् ४

संहिता

उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ ।
उ॒त ब्र॒ह्मा नि षी॑दति ॥

पदपाठः

उ॒त । ग्नाः । अ॒ग्निः । अ॒ध्व॒रे । उ॒तो इति॑ । गृ॒हऽप॑तिः । दमे॑ ।
उ॒त । ब्र॒ह्मा । नि । सी॒द॒ति॒ ॥

सायणभाष्यम्

उतापि चाग्निरध्वरे यागे ग्ना देवपत्नीर्यजति । यष्टा भवतीत्यर्थः । यद्वा । ग्ना गच्छन्नध्वर्युर्भवति । उतो अपि च सोऽग्निर्दमे यज्ञगृहे गृहपतिर्यजमानश्च भवति । उतापि च ब्रह्मा ब्राह्मणाच्छन् सी सन्नि षीदति । उपविशति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः